।। अपराजितायै नमः ।।

 


अपराजितास्तोत्रम्


विनियोगः

ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः,

वामदेव- बृहस्पति- मार्कण्डेया ऋषयः, गायत्र्युष्णिगनुष्टुप् बृहती-

छन्दांसि, लक्ष्मी - नृसिंहो देवता, ॐ क्लीं श्रीं ह्रीं बीजम्, हूँ

शक्तिः, सकलकामनासिद्ध्यर्थम् अपराजितविद्यामन्त्रपाठे

ध्यानम्

ॐ नीलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् ।

शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ।। १ ।।


शङ्खचक्रधरां देवीं वैष्णवीमपराजिताम् ।

ॐ बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ।। २।।

नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ।। ३।।

मार्कण्डेय उवाच

शृणुध्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् ।

असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ।। १ ।।

ॐ नमो नारायणाय। ॐ नमो भगवते वासुदेवाय, नमोऽस्त्व-

नन्ताय, सहस्त्र-शीर्षाय, क्षीरोदार्णवशायिने, शेषभोग-पर्य्यङ्काय,

गरुडवाहनाय, अमोघाय, अजाय, अजिताय, पीतवाससे, ॐ

वासुदेव, सङ्कर्षण, प्रद्युम्न, अनिरुद्ध, हयग्रीव, मत्स्य, कूर्म, वराह,

नृसिंह, अच्युत, वामन, त्रिविक्रम, श्रीधर, राम, राम राम । वरद,

वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तु ते स्वाहा।

ॐ असुर दैत्य-दानव यक्ष-राक्षस भूत-प्रेत-

पिशाच- कूष्माण्ड-सिद्ध-योगिनी - डाकिनी- शाकिनी-

स्कन्दग्रहान् उपग्रहान् नक्षत्रग्रहांश्चाऽन्यान् हन हन, पच पच,

मथ मथ, विध्वंसय विध्वंसय, विद्रावय विद्रावय, चूर्णय

चूर्णय, शङ्खेन चक्रेण वज्रेण शूलेन गदया मुसलेन हलेन

भस्मीकुरु कुरु स्वाहा।

ॐ सहस्त्रबाहो, सहस्त्रप्रहरणायुध, जय जय, विजय

विजय, अजित, अमित, अपराजित, अप्रतिहत, सहस्रनेत्र,

ज्वल ज्वल, प्रज्वल प्रज्वल, विश्वरूप, बहुरूप, मधुसूदन,

महावराह, महापुरुष, वैकुण्ठ, नारायण, पद्मनाभ, गोविन्द,

दामोदर, हृषीकेश, केशव, सर्वासुरोत्सादन, सर्वभूतवशङ्कर,

सर्वदुःस्वप्न-प्रभेदन, सर्वयन्त्र-प्रभञ्जन, सर्वनाग-विमर्दन,

सर्वदेवमहेश्वर, सर्वबन्ध - विमोक्षण, सर्वाहित प्रमर्दन,

सर्वज्वर-प्रणाशन, सर्वग्रह-निवारण, सर्वपाप-प्रशमन,

जनार्दन, नमोऽस्तु ते स्वाहा ।

विष्णोरियमनुप्रोक्ता सर्वकामफलप्रदा ।

सर्वसौभाग्यजननी सर्वभीतिविनाशिनी ।।२।।

सर्वैश्च पठिता सिद्धैर्विष्णोः परमवल्लभा ।

नाऽनया सदृशं किञ्चिद् दुष्टानां नाशनं परम् ।। ३ ।।

विद्या रहस्या कथिता वैष्णव्येषाऽपराजिता ।

पठनीया प्रशस्ता वा साक्षात् सत्त्वगुणाश्रया ।। ४।।

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।। ५ ।।

अथाऽतः सम्प्रवक्ष्यामिह्यभयामपराजिताम् ।

या शक्तिर्मामकी वत्स! रजोगुणमयी मता ।।६।।

सर्वसत्त्वमयी साक्षात् सर्वमन्त्रमयी च या ।

या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता ||७||

सर्वकामदुधा वत्स! शृणुष्वैतां ब्रवीमि ते ॥८॥

य इमामपराजितां परमवैष्णवीमप्रतिहर्ता पदति सिद्धां

स्मरति सिद्धां महाविद्यां जपति पठति शृणोति स्मरति धारयति

कीर्तयति वा न तस्याऽग्नि वायु-वज्रोपलाशनिवर्षपर्य, न

समुद्रभयं, न ग्रहभयं, न चौरभय, न शत्रुभये, शापभयं वा

भवेत्। क्वचिद्रात्र्यन्यकारी राजकुल- विद्वेषि-विषगर,

गर्द, वशीकरण, विद्वेषणोच्चाटन, वथबन्धनधर्य या न भवेत्।

एतैर्मन्त्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः । ॐ नमोऽस्तु ते।

अभये, अनधे, अजिते, अमिते, अमृते, अपरे, अपराजिते,

पठति सिद्धे, जपति सिद्धे। स्मरति सिद्धे, एकोनाशीतितमे,

एकाकिनि, निश्चेतसि, सुडुमे, सुगन्धे, एकान्नंशे, उमे, ध्रुवे,

अरुन्धति, गायत्रि, सावित्रि, जातवेदसि, मानस्तोक,

सरस्वति, धरणि धारिणि, सौदामिनि, अदिति, दिति, विनते,

गौरि, गान्धारि, मातङ्गि, कृष्णे, यशोदे, सत्यवादिनि,

ब्रह्मवादिनि, कालि, कपालिनि, करालनेत्रे, भद्रे, निद्रे,

सत्योपयाचनकरि, स्थल-गतं, जलगतम्, अन्तरिक्षगतं वा मां

रक्ष सर्वोपद्रवेभ्यः स्वाहा।

यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ।

म्रियते बालको यस्याः काकबन्ध्या च या भवेत् ।।९।।

धारयेद् या इमां विद्यामेतैर्दोषैर्न लिप्यते ।

गर्भिणी जीववत्सा स्यात् पुत्रिणी स्यान्न संशयः ।। १० ।।

भूर्जपत्रे त्विमां विद्यां लिखित्वा गन्ध-चन्दनैः ।

एतैर्दोषैर्न लिप्येत सुभगा पुत्रिणी भवेत् ।। ११ ।।

रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ।

शस्त्रं वारयते ह्येषां समरे काण्डदारुणे ।। १२ ।।

गुल्म- शूलाक्षि- रोगाणां क्षिप्रं नाशयति व्यथाम् ।

शिरोरोग ज्वराणां च नाशिनी सर्वदेहिनाम् ।। १३ ।।

इत्येषा कथितो विद्या अभयाख्याऽपराजिता ।

एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ।। १४ । ।

नोपसर्गा न रोगाश्च न योधा नाऽपि तस्कराः ।

न राजानो न सर्पाश्च न द्वेष्टारो न शत्रवः ।। १५ ।।

यक्ष- राक्षस- वेताला न शाकिन्यो न च ग्रहाः ।

अग्नेर्भयं न वाताच्च न समुद्रान्न वै विषात् ।। १६ ।।

कार्मणं वा शत्रुकृतं वशीकरणमेव च ।

उच्चाटनं स्तम्भनंच विद्वेषणमथापि वा ।। १७ । ।

न किञ्चित् प्रभवेत्तत्र यत्रैषा वर्ततेऽ भया ।

पठेद् वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ।। १८ ।।

हृदि वा द्वारदेशे वा वर्त्तते ह्यभयः पुमान् ।

हृदये विन्यसेदेतां ध्यायेद् देवीं चतुर्भुजाम् ।। १९ ।।

पद्मरागसमप्रभाम् । रक्तमाल्याम्बरधरां

पाशा ऽङ्कुशा ऽभयवरैरलङ्कृत- सुविग्रहाम् ।।२०।।

साधकेभ्यः प्रयच्छन्ती मन्त्रवर्णामृतान्यपि ।

नाऽतः परतरं किञ्चिद् वशीकरणमुत्तमम् ।। २१ ।।

रक्षणं पावनं चाऽपि नाऽत्र कार्या विचारणा ।

प्रातः कुमारिकाः पूज्याः खाद्यैराभरणैरपि ।। २२ ।।

तदिदं वाचनीयं स्यात् तत्प्रीत्या नीयते तु माम् ।

ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलाम् ।।२३।।

सर्वदुष्टमशमनी सर्वशत्रुक्षयङ्करीम् ।

दारिद्र्यदुःखशमनी दौर्भाग्यं व्याधिनाशिनीम् ।। २४ ।।

भूत-प्रेत-पिशाचानां यक्ष- गन्धर्व रक्षसाम् ।

डाकिनी शाकिनी- स्कन्द- कूष्माण्डानां च नाशिनीम् ।।२५।।

महारौद्री महाशक्तिं सद्यः प्रत्ययकारिणीम् ।

गोपनीयं प्रयत्लेन सर्वस्वं पार्वतीपतेः ।।२६।।

तामहं ते प्रवक्ष्यामि सावधानमनाः शृणु ।

एकाह्निकं यह्निकं चातुर्थिकार्द्धमासिकम् ।।२७।।

द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ।

पञ्चमासिकं षाण्मासिकं वातिक-पैत्तिकज्वरम् ।।२८।।


श्लैष्मिकं सान्निपातिकं तथैव सततं ज्वरम् ।

मौहूर्तिकं पैत्तिकं शीतज्वरं विषमज्वरम् ।। २९ । ।

द्वयह्निकं त्र्यह्निकं चैव ज्वरमेकाह्निकं तथा ।

क्षिप्रं नाशयते नित्यं स्मरणादपराजिता ।। ३० ।।

मन्त्रः

ॐ ह्रीं हन हन, कालि शर शर, गौरि धम धम, विद्ये

आले ताले माले गन्धे बन्धे पच पच विद्ये नाशय नाशय पापं

ॐ हर हर संहारय वा दुःस्वप्नविनाशिनि कमलस्थिते

विनायकमातः रजनि सन्ध्ये, दुन्दुभिनादे, मानसवेगे, शङ्खनि,

चक्रिणि, गदिनि, वञ्चिणि शूलिनि अपमृत्युविनाशिनि

विश्वेश्वरि, द्रविडि द्राविडि द्रविणि द्राविणि केशवदयिते,

पशुपतिसहिते दुन्दुभिदमनि दुर्मदमनि शबरि किराति, मातङ्गि

ॐ द्रं द्वं वं वं क्रं क्रं तुरु तुरु ॐ द्रं कुरु कुरु ।

ये मां द्विषन्ति प्रत्यक्षं परोक्षं वा तान् सर्वान् दम दम, मर्दय

मर्दय, तापय तापय, गोपय गोपय, पातय पातय, शोषय

शोषय, उत्सादय उत्सादय, ब्रह्माणि वैष्णवि माहेश्वरि कौमारि

वाराहि नारसिंहि ऐन्द्रि चामुण्डे महालक्ष्मि वैनायिकि औपेन्द्रि

आग्नेषि चण्डि नैर्ऋति वायव्ये सौम्ये ऐशानि ऊर्ध्वमघो रक्ष

प्रचण्डविद्ये इन्द्रोपेन्द्र भगिनि ।

ॐ नमो देवि जये विजये शान्ति स्वस्ति तुष्टि पुष्टिविवर्धिनि ।

कामाङ्कुशे कामदुधे सर्वकामवरप्रदे ।। ३१ ।।

सर्वभूतेषु मां प्रियं कुरु कुरु स्वाहा। आकर्षण आवेशनि।

ज्वालामालिनि रमणि रामणि, धरणि, धारणि तपनि तापिनि,

मदनि मादिनि, शोषणि सम्मोहनि नीलपताके महानीले

महागौरि महाश्रिये। महाचान्द्रि महासौरि महामायूरि

आदित्यरश्मि जाह्नवि । यमघण्टे किणि किणि चिन्तामणि ।

सुगन्धे सुरभे सुराऽसुरोत्पन्ने सर्वकामदुधे, यद्यथा मनीषितं

कार्यं तन्मम सिद्धयतु स्वाहा।

ॐ स्वः स्वाहा । ॐ भूः स्वाहा । ॐ भुवः स्वाहा । ॐ

स्वः स्वाहा । ॐ महः स्वाहा । ॐ जनः स्वाहा । ॐ तपः

स्वाहा। ॐ सत्यं स्वाहा। ॐ भूर्भुवः स्वः स्वाहा।

यत एवागतं पापं तत्रैव प्रतिगच्छतु स्वाहेत्योम् ।

अमोघैषा महाविद्या वैष्णवी चाऽपराजिता ।। ३२ ।।

स्वयं विष्णुं प्रणीता च सिद्धेयं पाठतः सदा ।

एषा महाबला नाम कथिता तेऽपराजिता ।। ३३ ।।

नाऽनया सदृशी रक्षा त्रिषु लोकेषु विद्यते ।

तमोगुणमयी साक्षाद्रौद्री शक्तिरियं मता ।। ३४ ।।

कृतान्तोऽपि यतो भीतः पादमूले व्यवस्थितः ।

मूलाधारे न्यसेदेतां रात्रावेनां च संस्मरेत् ।।३५।।

नील- जीमूत-सङ्काशां तडित्-कपिल केशकाम् ।

उद्यदादित्यसङ्काश नेत्रत्रय- विराजिताम् ।।३६।।

शक्तिं त्रिशूलश च पानपात्रं च विभ्रतीम् ।

व्याघ्रचर्मपरीधानां किङ्किणीजालमण्डिताम् ।। ३७।।

धावन्तीं गगनस्याऽन्तः पादुकाहितपादकाम् ।

दंष्ट्राकरालवदनां व्याल-कुण्डल- भूषिताम् ।। ३८ ।।

व्यात्तवक्त्रां ललज्जिह्वां भृकुटी कुटिलालकाम् ।•

स्वभक्तद्वेषिणां रक्तं पिबन्तीं पानपात्रतः ।। ३९ ।।

सप्तधातून शोषयन्तीं क्रूरदृष्ट्या विलोकनात् ।

त्रिशूलेन च तज्जिह्वां कीलयन्तीं मुहुर्मुहुः ||४०||

पाशेन बद्ध्वा तं साध्यमानयन्तीं तदन्तिके ।

अर्द्धरात्रस्य समये देवीं ध्यायेन्महाबलाम् ।।४१।।

यस्य यस्य वदन्नाम जपेन्मन्त्रं निशान्तके ।

तस्य तस्य तथाऽवस्थां कुरुते साऽपि योगिनी ।।४२।

ॐ बले महाबले असिद्धसाधनी स्वाहेत्योम्

अमोघां पठति सिद्धां श्रीवैष्णवीम्।
श्रीमदपराजितविद्यां ध्यायेत्।
फलश्रुतिः दुःस्वप्ने च दुररिष्टे दुर्निमित्ते तथैव च ।।

व्यवहारे भवेत् सिद्धिः पठेद् विघ्नोपशान्तये ।। ४३ ।।

क्षमा-प्रार्थना

यदत्र पाठे जगदम्बिके! मया, विसर्ग-विन्द्वक्षर- हीनमीडितम् ।

तदस्तु सम्पूर्णतमं प्रयान्तु सङ्कल्पसिद्धिस्तु सदैव जायताम् ।। ४४ ।।

तव तत्त्वं न जानामि कीदृशासि महेश्वरि !

यादृशासि महादेवि! तादृशायै नमो नमः । । ४५ ।।


एक टिप्पणी भेजें

Please Select Embedded Mode To Show The Comment System.*

और नया पुराने